|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.110. अध्यायः 110
Mahabharata - Adi Parva - Chapter Topics
संग्रहेण अम्बाचरित्रकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
अम्बोवाच। 1-110-0x(675)(4944)
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः।
साहं धर्माच्च कामाच्च विहीना शोकधारिणी॥ 1-110-1(4945)
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः।
इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति॥ 1-110-2(4946)
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति।
तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः॥ 1-110-3(4947)
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात्।
अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम्॥ 1-110-4(4948)
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम्।
सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम्॥ 1-110-5(4949)
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ।
भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे॥ 1-110-6(4950)
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर।
तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः॥ 1-110-7(4951)
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ।
***न्त्येवं न विन्दामि राजन्यं शरणं क्वचित्॥ 1-110-8(4952)
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति।
समागम्य तु राजानो मयोक्ता राजसत्तमाः॥ 1-110-9(4953)
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः।
इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः॥ 1-110-10(4954)
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत्।
प्रसीद यज्ञसेनेह गतिर्मे भव सोमक॥ 1-110-11(4955)
यज्ञसेन उवाच। 1-110-12x(676)
जानामि त्वां बोधयामि राजपुत्रि विशेषतः।
यथाशक्ति यथाधर्मं बलं संधारयाम्यहम्॥ 1-110-12(4956)
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे।
तस्यापनयने हेतुं संविधातुमहं प्रभुः॥ 1-110-13(4957)
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः।
ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते॥ 1-110-14(4958)
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात्।
न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम्॥ 1-110-15(4959)
न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन। 1-110-16(4960)
वैशम्पायन उवाच।
इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत्॥ 1-110-16x(677)
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम्।
तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः॥ 1-110-17(4961)
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय॥ 1-110-18(4962)
अम्बोवाच। 1-110-19x(678)
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते।
न तु तस्यान्यथा भावो दैवमेतदमानुषम्॥ 1-110-19(4963)
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते।
स भीष्मं समरे हन्ता मम धर्मप्रणाशनम्॥ 1-110-20(4964)
वैशम्पायन उवाच। 1-110-21x(679)
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः।
ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत॥ 1-110-21(4965)
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया।
तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात्॥ 1-110-22(4966)
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम्।
गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी॥ 1-110-23(4967)
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः।
गङ्गाद्वारे विभजनं भविता नचिरादिव॥ 1-110-24(4968)
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम्।
आराधयितुमीहस्व सम्यक्परिचरस्व तम्॥ 1-110-25(4969)
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने।
तं तदाचर भद्रं ते स ते श्रेयो विधास्यति॥ 1-110-26(4970)
ततो विभजनं तत्र गन्धर्वाणामवर्तत।
तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ॥ 1-110-27(4971)
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह।
इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते॥ 1-110-28(4972)
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ।
ततः पुमान्समभवच्छिखण्डी परवीरहा॥ 1-110-29(4973)
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः।
लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः॥ 1-110-30(4974)
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत्।
तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः॥ 1-110-31(4975)
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन।
सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः॥ 1-110-32(4976)
उवाच भवता भीष्मान्न भेतव्यं कथंचन॥ ॥ 1-110-33(4977)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि दशाधिकशततमोऽध्यायः॥ 110 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-110-10 पाञ्चालानां च ये वराः ते राजानः मयोक्ता इति पूर्वेण संबन्धः॥ 1-110-14 ईश्वरो नहि॥ 1-110-16 भीष्मात् भीष्ममपेक्ष्य॥ 1-110-24 विभजनं उत्सवविशेषः॥ दशाधिकशततमोऽध्यायः॥ 110 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|